|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.314. अध्यायः 314
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति श्रेयःसाधनधर्मप्रतिपादकजनकानुशासनानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-314-0x(6500)(78177)
मृगयां विचरन्कश्चिद्विजने जनकात्मजः।
वने ददर्श विप्रेन्द्रमृषिं वंशधरं भृगोः॥ 12-314-1(78178)
तमासीनमुपासीनः प्रणम्य शिरसा मुनिम्।
पश्चादनुमतस्तेन पप्रच्छ वसुमानिदम्॥ 12-314-2(78179)
भगवन्किमिदं श्रेयः प्रेत्य चापीह वा भवेत्।
पुरुषस्याध्रुवे देहे कामस्य वशवर्तिनः॥ 12-314-3(78180)
सत्कृत्य परिपृष्टः सन्सुमहात्मा महातपाः।
निजगाद ततस्तस्मै श्रेयस्करमिदं वचः॥ 12-314-4(78181)
ऋषिरुवाच। 12-314-5x(6501)
मनसः प्रतिकूलानि प्रेत्य चेह नचेच्छसि।
भूतानां प्रतिकूलेभ्यो निवर्तस्य यतेन्द्रियः॥ 12-314-5(78182)
धर्मः सदा हितः पुंसां धर्मश्चैवाश्रयः सताम्।
धर्माल्लोकास्त्रयस्तात प्रवृत्ताः सचराचराः॥ 12-314-6(78183)
स्वादुकामुक कामानां वैतृष्ण्यं किं न गच्छसि।
मधु पश्यसि दुर्बुद्धे प्रपातं नानुपश्यसि॥ 12-314-7(78184)
यथा ज्ञाने परिचयः कर्तव्यस्तत्फलार्थिना।
तथा धर्मे परिचयः कर्तव्यस्तत्फलार्थिना॥ 12-314-8(78185)
असता धर्मकामेन विशुद्धं कर्म दुष्करम्।
सता तु धर्मकामेन सुकरं कर्म दुष्करम्॥ 12-314-9(78186)
वने ग्राम्यसुखाचारो यथाग्राम्यस्तथैव सः।
ग्रामे वनसुखाचारो यथा वनचरस्तथा॥ 12-314-10(78187)
मनोवाक्कर्मगे धर्मे कुरु श्रद्धां समाहितः।
निवृत्तौ वा प्रवृत्तौ वा संप्रधार्य गुणागुणान्॥ 12-314-11(78188)
नित्यं च बहु दातव्यं साधुभ्यश्चानसूयता।
प्रार्थितं ब्राह्मणेभ्यश्च सत्कृतं देशकालयोः॥ 12-314-12(78189)
शुभेन विधिना लब्धमर्हाय प्रतिपादयेत्।
क्रोधमुत्सृज्य दत्त्वाऽथ नानुतप्येन्न कीर्तयेत्॥ 12-314-13(78190)
अनृशंसः शुचिर्दान्तः सत्यवागार्जवे स्थितः।
योनिकर्मविशुद्धश्च पात्रं स्याद्वेदविद्द्विजः॥ 12-314-14(78191)
संस्कृता चैकपत्नी च जात्या योनिरिहेष्यते।
ऋग्यजुःसामगो विद्वान्षट्कर्मा पात्रमुच्यते॥ 12-314-15(78192)
स एव धर्मः सोऽधर्मस्तं तं प्रति नरं भवेत्।
पात्राकर्मविशेषेण देशकालाववेक्ष्य च॥ 12-314-16(78193)
लीलयाऽल्पं यथा गात्रात्प्रमृज्यात्तु रजः पुमान्।
बहुयत्नेन च महत्पापनिर्हरणं तथा॥ 12-314-17(78194)
विरिक्तस्य यथा सम्यग्घृतं भवति भेषजम्।
तथा निर्हृतदोषस्य प्रेत्य धर्मः सुखावहः॥ 12-314-18(78195)
मानसं सर्वभूतेषु वर्तते वै शुभाशुभम्।
अशुभेभ्यः समाक्षिप्य शुभेष्वेवावधारय॥ 12-314-19(78196)
सर्वं सर्वेणा सर्वत्र क्रियमाणं च पूजय।
स्वधर्मे यत्र रागस्ते कामं धर्मो विधीयताम्॥ 12-314-20(78197)
अधृतात्मन्धृतौ तिष्ठ दुर्बद्धे बुद्धिमान्भव।
अप्रशान्तः प्रशाम्य त्वमप्राज्ञः प्राज्ञवच्चर॥ 12-314-21(78198)
तेजसा शक्यते प्राप्तुमुपायः सहचारिणा।
इह च प्रेत्य च श्रेयस्तस्य मूलं धृतिः परा॥ 12-314-22(78199)
राजर्षिरधृतिः स्वर्गात्पतितो हि महाभिषः।
ययातिः क्षीणपुण्योपि धृत्या लोकानवाप्तवान्॥ 12-314-23(78200)
तपस्विनां धर्मवतां विदुषां चोपसेवनात्।
प्राप्स्यसे विपुलां बुद्धिं तथा श्रेयोऽभिपत्स्यसे॥ 12-314-24(78201)
भीष्म उवाच। 12-314-25x(6502)
स तु स्वभावसंपन्नस्तच्छ्रुत्वा मुनिभाषितम्।
विनिवर्त्य मनः कामाद्धर्मे बुद्धिं चकार ह॥ ॥ 12-314-25(78202)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुर्दशाधिकत्रिशततमोऽध्यायः॥ 314॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-314-5 वैतृष्णं को न गच्छति इति ध. पाठः। किं न पृच्छसीति थ. पाठः॥ 12-314-15 एकस्यैव पत्नी एकपत्नी नत्वन्यपूर्वा। जात्याः पुत्रोत्पत्तेः योनिः स्यतानम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|